|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.186. अध्यायः 186
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिरेणावश्चवेद्योपास्येषु परावधिं पृष्टेनि भीष्मेण तम्प्रति श्रीनारायणमहिमप्रतिपादकनारदपुण्डिरीकसंवादानुवादपूर्वकं नारायणस्य सर्वोत्कृष्टत्वेन वेद्यत्वोपास्यत्वविधानम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`*युधिष्ठिर उवाच।
यज्ज्ञेयं परमं कृत्यमनुष्ठेयं महात्मभिः।
सारं मे सर्वशास्त्राणां वक्तुमर्हस्यनुग्रहात्॥ 13-186-1(88763)
भीष्म उवाच। 13-186-2x(7402)
श्रूयतामिदमत्यन्तं गूढं संसारमोचनम्।
श्रोतव्यं च त्वया सम्यग्ज्ञातव्यं च विशाम्पते॥ 13-186-2(88764)
पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः।
नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम्॥ 13-186-3(88765)
नारदश्चाब्रवीदेनं ब्रह्मणोक्तं महात्मना॥ 13-186-4(88766)
शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम्।
अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसंयुतम्। 13-186-5(88767)
यः परः प्रकृते प्रोक्तः पुरुषः पञ्चविंशकः।
स एव सर्वभूतात्मा नर इत्यभिधीयते॥ 13-186-6(88768)
नराज्जातानि तत्वानि नाराणीति ततो विदुः।
तान्येव चायनं तस्य तेन नारायणः स्मृतः॥ 13-186-7(88769)
नारायणाज्जगत्सर्वं सर्गकाले प्रजायते।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते॥ 13-186-8(88770)
नारायणः परं ब्रह्म तत्वं नारायणः परः।
परादपि परश्चासौ तस्मान्नास्ति परात्परः॥ 13-186-9(88771)
वासुदेवं तथा विष्णुमात्मानं च तथा विदुः।
संज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंस्कृतः॥ 13-186-10(88772)
आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा॥ 13-186-11(88773)
तस्मात्त्वं गहनान्सर्वांस्त्यक्त्वा शास्त्रार्थविस्तरान्।
अनन्यचेता ध्यायस्व नारायणमजं विभुम्॥ 13-186-12(88774)
मुहूर्तिमपि यो ध्यायेन्नारायणमतन्द्रितः।
सोऽपि तद्गतिमाप्नोति किं पुनस्तत्परायणः॥ 13-186-13(88775)
नमो नारायणायेति यो वेद ब्रह्म शाश्वतम्।
अन्त्यकाले जपन्नेति तद्विष्णोः परमं पदम्॥ 13-186-14(88776)
श्रवणान्मननाच्चैव गीतिस्तुत्यर्चनादिभिः।
आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा॥ 13-186-15(88777)
लिप्यते न स पापेन नारायणपरायणः।
पुनाति सकलं लोकं सहस्रांशुरिवोदितः॥ 13-186-16(88778)
ब्रह्मचारी गृहस्थोऽपि वानप्रस्थोऽथ भिक्षुकः।
केशवाराधनं हित्वा नैव याति परां गतिम्॥ 13-186-17(88779)
जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः।
तद्भक्तवत्सलं देवं समराधय सुव्रत॥ 13-186-18(88780)
नारदेनैवमुक्तस्तु स विप्रोऽभ्यर्चयद्धरिम्।
स्वप्नोऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम्॥ 13-186-19(88781)
किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम्।
तं दृष्ट्वा देवदेवेशं प्राणमत्सम्भ्रमान्वितः॥ 13-186-20(88782)
अथ कालेन महता तथा प्रत्यक्षतां गतः।
संस्तुतः स्तुतिभिर्वेदैर्देवगन्धर्वकिन्नरैः॥ 13-186-21(88783)
अथ तेनैव भगवानात्मलोकमधोक्षजः।
गतः सम्प्रजितः सर्वैः स योगिनिलयो हरिः॥ 13-186-22(88784)
तस्मात्त्वमपि राजेन्द्र तद्भक्तस्तत्परायणः।
अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम्॥ 13-186-23(88785)
अजरममरमेकं ध्येयमाद्यन्तशून्यं
सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम्।
निरुपममुपमेयं योगिविज्ञानगम्यं
त्रिभुवनगुरुमीशं सम्प्रपद्यस्व विष्णुम्॥ 13-186-24(88786)
॥ इती श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि ष़डशीत्यधिकशततमोऽध्यायः॥ 186 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-186-1x अयमध्यायो दाक्षिणात्यकोशेष्वेव दृश्यते।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|